Monday, July 10, 2017

बिल्वपत्र चढाने के 108 मन्त्र

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥

सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।
सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥

नागाधिराजवलयं नागहारेण भूषितम् ।
नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥

अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥

त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।
विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥

त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥

गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।
कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥

शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।
सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥

सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।
वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।
हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥

अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।
ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥

हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।
अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥

पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।
नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥

सुराश्रयं विषहरं वर्मिणं च वरूधिनम् I
महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥

कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।
तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।
अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥

नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।
महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥

चूडामणीकृतविभुं वलयीकृतवासुकिम् ।
कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥

कर्पूरकुन्दधवलं नरकार्णवतारकम् ।
करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥

महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।
महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥

भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।
वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥

फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।
नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥२३॥

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।
वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥

सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।
मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥

दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।
मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।
निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥

सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।
सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥

सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।
सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ II२९॥

मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।
कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥

तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।
भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ II३१॥

स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।
नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥

मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।
फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥

निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।
तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् II३४॥

सर्वलोकैकपितरं सर्वलोकैकमातरम् ।
सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥

चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।
नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥

रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।
नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् II३७॥

दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।
नानारत्नमणिमयं एकबिल्वं शिवार्पणम्  II३८॥

रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।
भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ II३९॥

वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।
पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥

सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।
सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥

नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।
विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ II४२॥

अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।
धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ II४३॥

गौरीविलाससदनं जीवजीवपितामहम् ।
कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥

सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।
दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥

सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।
अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।
सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ II४७॥

जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।
जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥

विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।
वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ II४९॥

गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।
जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥

त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।
दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥

कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।
कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥

कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।
शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ II५३॥

जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।
पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥

सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।
ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥

मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।
बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ II५६॥

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।
सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५८॥

युगाकारं युगाधीशं युगकृद्युगनाशनम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५९॥

धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।
कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥

सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।
योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥

उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।
भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।
विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥६३॥

कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।
ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥

लावण्यमधुराकारं करुणारसवारधिम् ।
भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।
कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ II६६॥

शिवं शान्तं उमानाथं महाध्यानपरायणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥

वासुक्युरगहारं च लोकानुग्रहकारणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥

शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् I
शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥

शरणागतदीनार्तपरित्राणपरायणम् ।
गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥

भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् I
करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।
व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।
हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥

दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।
हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ II७४॥

महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।
वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ II७५॥

स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् I
जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ II७६॥

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।
रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥

फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् I
दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥

नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।
मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम्  II७९॥

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।
सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् II८०॥

निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥८१॥

भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।
कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥८२॥

घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।
कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥

मातङ्गचर्मवसनं विराड्रूपविदारकम् ।
विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।
यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम्  II८५॥

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।
योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥

महोन्नतमहाकायं महोदरमहाभुजम् ।
महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥

सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।
महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् II८८॥

समस्तजगदाधारं समस्तगुणसागरम् ।
सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥८९॥

माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।
दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥

तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।
प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् II९३॥

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।
पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥९४॥

अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।
मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥

सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९६॥

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।
सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् II९७॥

चतुर्वेदसहस्राणि भारतादिपुराणकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९८॥

सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।
तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥

अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।
अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् II१०१॥

अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।
त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥१०२॥

दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम्
सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् II१०३॥

पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।
अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥१०४॥

विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।
तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥

त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत्
जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥

अनेकदानफलदं अनन्तसुकृतादिकम् ।
तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥

त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।
भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥
                       ।।इति।।

Saturday, March 12, 2016

यज्ञ / हवन के लाभ -3

यज्ञ । हवन को सनातन संस्कृति में बहुत अधिक महत्व दिया गया है। आध्यात्मिक दृष्टि के साथ-साथ ये शारीरिक और मानसिक लाभ भी पहुँचाते हैं। पूर्वकाल की कई कथाएं प्रचलित हैं जहाँ यज्ञ के माध्यम से विभिन्न कार्य सिद्ध किये गए निसन्तानों को संतान और कुरूप या रोगी को स्वस्थय और रूपवान बना दिया गया। लेकिन आज परिस्तिथि पूर्णतः भिन्न है। लोगों के पास पूजा का ही समय नहीं है तो कहाँ से करें? कुछ दशक पूर्व तक संध्या करने वाले लोग भी नित्य हवन करते थे विशेषतः ब्राह्मण समुदाय परन्तु अब वहां भी इसका स्थान नहीं के बराबर ही रह गया है। 

यज्ञ के पीछे छिपा विज्ञान:-


"हवन यज्ञ" -2

31. कोटि होम:-
शतमुख, दशमुख, द्विमुख और एक मुख भेद से चार प्रकार का कोटि होम होता है। शतमुख में अथवा 100 कुण्डों के यज्ञ में प्रत्येक कुण्ड पर 10-10 विद्वान हवनकत्र्ता बैठते है। इस प्रकार 100 कुण्डों के हवन में एक हजार (1000) विद्वान होते है। दशमुख अर्थात 100 कुण्डों के यज्ञ में प्रत्येक कुण्ड में 20-20 होता (हवनकर्ता) बैठते है। इस प्रकार 10 कुण्डों के यज्ञ में 200 विद्वान हवनकर्ता बैठने चाहिए। दमुख अर्थात दो कुण्डों के यज्ञ में 50-50 होता बैठते है। इस प्रकार से हवन में 100 विद्वान हवनकर्ता होने चाहिए। एक मुख में अर्थात एक कुण्ड के यज्ञ में हवनकर्ता की संख्या का कोई खास नियम नहीं सामथ्र्य के अनुसार जितने भी विद्वान हवनार्थ बैठाना चाहे बैठा सकता हैं सौ कुण्डों का कोटि होम बहुत बडा महायज्ञ कहा जाता है। कोटि यज्ञ में सामग्री 200 मन लगती है।
32. गायत्री यज्ञ:-
गायत्री महायज्ञ में चैबीस लाख (2400000) आहुतियां होती हैं चैबीस लाख आहुतियों के गायत्री महायज्ञ में 55 मन अथवा 60 मन हवन सामग्री लगती हैं इस यज्ञ में 61 अथवा 71 विद्वान होते है। यह महायज्ञ 9 अथवा 11 दिन में होता हैै। गायत्री महायज्ञ में 1,5,9 अथवा 24 कुण्ड होते है।
33. शतचण्डी:-
शतचण्डी 5 दिन में अथवा 9 दिन में होती हैं पांच अथवा नव दिन की शतचण्डी में दुर्गा पाठ कराने के लिए 13 विद्वान होते है। शत चण्डी में हवन सामग्री सवा मन (50 किलों) लगती है। शत चण्डी
सर्वदा की जा सकती है।

"हवन यज्ञ" -1


यज्ञ दो प्रकार के होते है- श्रौत और स्मार्त। श्रुति पति पादित यज्ञो को श्रौत यज्ञ और स्मृति प्रतिपादित यज्ञो को स्मार्त यज्ञ कहते है। श्रौत यज्ञ में केवल श्रुति प्रतिपादित मंत्रो का प्रयोग होता है और स्मार्त यज्ञ में वैदिक पौराणिक और तांत्रिक मंन्त्रों का प्रयोग होता है। वेदों में अनेक प्रकार के यज्ञों का वर्णन मिलता है। किन्तु उनमें पांच यज्ञ ही प्रधान माने गये हैं - 1. अग्नि होत्रम, 2. दर्शपूर्ण मासौ, 3. चातुर्म स्यानि, 4. पशुयांग, 5. सोमयज्ञ, ये पाॅंच प्रकार के यज्ञ कहे गये है, यह श्रुति प्रतिपादित है। वेदों में श्रौत यज्ञों की अत्यन्त महिमा वर्णित है। श्रौत यज्ञों को श्रेष्ठतम कर्म कहा है कुल श्रौत यज्ञो को १९ प्रकार से विभक्त कर उनका संक्षिप्त परिचय दिया जा रहा है।
1. स्मार्त यज्ञः- 
विवाह के अनन्तर विधिपूर्वक अग्नि का स्थापन करके जिस अग्नि में प्रातः सायं नित्य हनादि कृत्य किये जाते है। उसे स्मार्ताग्नि कहते है। गृहस्थ को स्मार्ताग्नि में पका भोजन प्रतिदिन करना चाहिये।
2. श्रोताधान यज्ञः-
दक्षिणाग्नि विधिपूर्वक स्थापना को श्रौताधान कहते है। पितृ संबंधी कार्य होते है।
3. दर्शभूर्णमास यज्ञः-
अमावस्या और पूर्णिमा को होने वाले यज्ञ को दर्श और पौर्णमास कहते है। इस यज्ञ का अधिकार सपत्नीक होता है। इस यज्ञ का अनुष्ठान आजीवन करना चाहिए यदि कोई जीवन भर करने में असमर्थ है तो 30 वर्ष तक तो करना चाहिए।
4. चातुर्मास्य यज्ञः-
चार-चार महीने पर किये जाने वाले यज्ञ को चातुर्मास्य यज्ञ कहते है इन चारों महीनों को मिलाकर चतुर्मास यज्ञ होता है।
5. पशु यज्ञः-
प्रति वर्ष वर्षा ऋतु में या दक्षिणायन या उतरायण में संक्रान्ति के दिन एक बार जो पशु याग किया जाता है। उसे निरूढ पशु याग कहते है।
6. आग्रजणष्टि (नवान्न यज्ञ) :-
प्रति वर्ष वसन्त और शरद ऋतुओं नवीन अन्न से यज्ञ गेहूॅं, चावल से जा यज्ञ किया जाता है उसे नवान्न कहते है।
7. सौतामणी यज्ञ (पशुयज्ञ) :-
इन्द्र के निमित्त जो यज्ञ किया जाता है सौतामणी यज्ञ इन्द्र संबन्धी पशुयज्ञ है यह यज्ञ दो प्रकार का है। एक वह पांच दिन में पुरा होता है। सौतामणी यज्ञ में गोदुग्ध के साथ सुरा (मद्य) का भी प्रयोग है। किन्तु कलियुग में वज्र्य है। दूसरा पशुयाग कहा जाता है। क्योकि इसमें पांच अथवा तीन पशुओं की बली दी जाती है।
8. सोम यज्ञः-
सोमलता द्वारा जो यज्ञ किया जाता है उसे सोम यज्ञ कहते है। यह वसन्त में होता है यह यज्ञ एक ही दिन में पूर्ण होता है। इस यज्ञ में 16 ऋत्विक ब्राह्मण होते है।
9. वाजपये यज्ञः-
इस यज्ञ के आदि और अन्त में वृहस्पति नामक सोम यग अथवा अग्निष्टोम यज्ञ होता है यह यज्ञ शरद रितु में होता है।
10. राजसूय यज्ञः-
राजसूय या करने के बाद क्षत्रिय राजा समाज चक्रवर्ती उपाधि को धारण करता है।
11. अश्वमेघ यज्ञ:-
इस यज्ञ में दिग्विजय के लिए (घोडा) छोडा जाता है। यह यज्ञ दो वर्ष से भी अधिक समय में समाप्त होता है। इस यज्ञ का अधिकार सार्वभौम चक्रवर्ती राजा को ही होता है।
12. पुरूष मेघयज्ञ:-
इस यज्ञ समाप्ति चालीस दिनों में होती है। इस यज्ञ को करने के बाद यज्ञकर्ता गृह त्यागपूर्वक वान प्रस्थाश्रम में प्रवेश कर सकता है।
13. सर्वमेघ यज्ञ:-
इस यज्ञ में सभी प्रकार के अन्नों और वनस्पतियों का हवन होता है। यह यज्ञ चैंतीस दिनों में समाप्त होता है।
14. एकाह यज्ञ:-
एक दिन में होने वाले यज्ञ को एकाह यज्ञ कहते है। इस यज्ञ में एक यज्ञवान और सौलह विद्वान होते है।
15. रूद्र यज्ञ:-
यह तीन प्रकार का होता हैं रूद्र महारूद्र और अतिरूद्र रूद्र यज्ञ 5-7-9 दिन में होता हैं महारूद्र 9-11 दिन में होता हैं। अतिरूद्र 9-11 दिन में होता है। रूद्रयाग में 16 अथवा 21 विद्वान होते है। महारूद्र में 31 अथवा 41 विद्वान होते है। अतिरूद्र याग में 61 अथवा 71 विद्वान होते है। रूद्रयाग में हवन सामग्री 11 मन, महारूद्र में 21 मन अतिरूद्र में 70 मन हवन सामग्र्री लगती है।
16. विष्णु यज्ञ:-
यह यज्ञ तीन प्रकार का होता है। विष्णु यज्ञ, महाविष्णु यज्ञ, अति विष्णु योग- विष्णु योग में 5-7-8 अथवा 9 दिन में होता है। विष्णु याग 9 दिन में अतिविष्णु 9 दिन में अथवा 11 दिन में होता हैं विष्णु याग में 16 अथवा 41 विद्वान होते है। अति विष्णु याग में 61 अथवा 71 विद्वान होते है। विष्णु याग में हवन सामग्री 11 मन महाविष्णु याग में 21 मन अतिविष्णु याग में 55 मन लगती है।
17. हरिहर यज्ञ:-
हरिहर महायज्ञ में हरि (विष्णु) और हर (शिव) इन दोनों का यज्ञ होता है। हरिहर यज्ञ में 16 अथवा 21 विद्वान होते है। हरिहर याग में हवन सामग्री 25 मन लगती हैं। यह महायज्ञ 9 दिन अथवा 11 दिन में होता है।
18. शिव शक्ति महायज्ञ:-
शिवशक्ति महायज्ञ में शिव और शक्ति (दुर्गा) इन दोनों का यज्ञ होता है। शिव यज्ञ प्रातः काल और श शक्ति (दुर्गा) इन दोनों का यज्ञ होता है। शिव यज्ञ प्रातः काल और मध्याहन में होता है। इस यज्ञ में हवन सामग्री 15 मन लगती है। 21 विद्वान होते है। यह महायज्ञ 9 दिन अथवा 11 दिन में सुसम्पन्न होता है।
19. राम यज्ञ:-
राम यज्ञ विष्णु यज्ञ की तरह होता है। रामजी की आहुति होती है। रामयज्ञ में 16 अथवा 21 विद्वान हवन सामग्री 15 मन लगती है। यह यज्ञ 8 दिन में होता है।
20. गणेश यज्ञ:-
गणेश यज्ञ में एक लाख (100000) आहुति होती है। 16 अथवा 21 विद्वान होते है। गणेशयज्ञ में हवन सामग्री 21 मन लगती है। यह यज्ञ 8 दिन में होता है।
21. ब्रह्म यज्ञ (प्रजापति यज्ञ):-
प्रजापत्ति याग में एक लाख (100000) आहुति होती हैं इसमें 16 अथवा 21 विद्वान होते है। प्रजापति यज्ञ में 12 मन सामग्री लगती है। 8 दिन में होता है।
22. सूर्य यज्ञ:-
सूर्य यज्ञ में एक करोड़ 10000000 आहुति होती है। 16 अथवा 21 विद्वान होते है। सूर्य यज्ञ 8 अथवा 21 दिन में किया जाता है। इस यज्ञ में 12 मन हवन सामग्री लगती है।
23. दूर्गा यज्ञ:-
दूर्गा यज्ञ में दूर्गासप्त शती से हवन होता है। दूर्गा यज्ञ में हवन करने वाले 4 विद्वान होते है। अथवा 16 या 21 विद्वान होते है। यह यज्ञ 9 दिन का होता है। हवन सामग्री 10 मन अथवा 15 मन लगती है।
24. लक्ष्मी यज्ञ:-
लक्ष्मी यज्ञ में श्री सुक्त से हवन होता है। लक्ष्मी यज्ञ (100000) एक लाख आहुति होती है। इस यज्ञ में 11 अथवा 16 विद्वान होते है। या 21 विद्वान 8 दिन में किया जाता है। 15 मन हवन सामग्री लगती है।
25. लक्ष्मी नारायण महायज्ञ:-
लक्ष्मी नारायण महायज्ञ में लक्ष्मी और नारायण का ज्ञन होता हैं प्रात लक्ष्मी दोपहर नारायण का यज्ञ होता है। एक लाख 8 हजार अथ्वा 1 लाख 25 हजार आहुतियां होती है। 30 मन हवन सामग्री लगती है। 31 विद्वान होते है। यह यज्ञ 8 दिन 9 दिन अथवा 11 दिन में पूरा होता है।
26. नवग्रह महायज्ञ:-
नवग्रह महायज्ञ में नव ग्रह और नव ग्रह के अधिदेवता तथा प्रत्याधि देवता के निर्मित आहुति होती हैं नव ग्रह महायज्ञ में एक करोड़ आहुति अथवा एक लाख अथवा दस हजार आहुति होती है। 31, 41 विद्वान होते है। हवन सामग्री 11 मन लगती है। कोटिमात्मक नव ग्रह महायज्ञ में हवन सामग्री अधिक लगती हैं यह यज्ञ ९ दिन में होता हैं इसमें 1,5,9 और 100 कुण्ड होते है। नवग्रह महायज्ञ में नवग्रह के आकार के 9 कुण्डों के बनाने का अधिकार है।
27. विश्वशांति महायज्ञ:-
विश्वशांति महायज्ञ में शुक्लयजुर्वेद के 36 वे अध्याय के सम्पूर्ण मंत्रों से आहुति होती है। विश्वशांति महायज्ञ में सवा लाख (123000) आहुति होती हैं इस में 21 अथवा 31 विद्वान होते है। इसमें हवन सामग्री 15 मन लगती है। यह यज्ञ 9 दिन अथवा 4 दिन में होता है।
28. पर्जन्य यज्ञ (इन्द्र यज्ञ):-
पर्जन्य यज्ञ (इन्द्र यज्ञ) वर्षा के लिए किया जाता है। इन्द्र यज्ञ में तीन लाख बीस हजार (320000) आहुति होती हैं अथवा एक लाख 60 हजार (160000) आहुति होती है। 31 मन हवन सामग्री लगती है। इस में 31 विद्वान हवन करने वाले होते है। इन्द्रयाग 11 दिन में सुसम्पन्न होता है।
29. अतिवृष्टि रोकने के लिए यज्ञ:-
अनेक गुप्त मंत्रों से जल में 108 वार आहुति देने से घोर वर्षा बन्द हो जाती है।
30. गोयज्ञ:-
वेदादि शास्त्रों में गोयज्ञ लिखे है। वैदिक काल में बडे-बडे़ गोयज्ञ हुआ करते थे। भगवान श्री कृष्ण ने भी गोवर्धन पूजन के समय गौयज्ञ कराया था। गोयज्ञ में वे वेदोक्त दोष गौ सूक्तों से गोरक्षार्थ हवन गौ पूजन वृषभ पूजन आदि कार्य किये जाते है। जिस से गौसंरक्षण गौ संवर्धन, गौवंशरक्षण, गौवंशवर्धन गौमहत्व प्रख्यापन और गौसड्गतिकरण आदि में लाभ मिलता हैं गौयज्ञ में ऋग्वेद के मंत्रों द्वारा हवन होता है। इस में सवा लाख 250000 आहुति होती हैं गौयाग में हवन करने वाले 21 विद्वान होते है। यह यज्ञ 8 अथवा 9 दिन में सुसम्पन्न होता है।

Tuesday, April 21, 2015

सम्पूर्ण षोडशमातृका-पूजन विधी-4

अथ मातृका ध्यानं
या श्री: स्वयं सुकृतिनां भवनेष्व लक्ष्मी:, पापात्मना कृतधियाँ हृदयेषु बुद्धि:। 
श्रद्धा सतां कुलजन प्रभवस्य लज्जा, तां त्वां नता: स्म परिपालय देविविश्वम॥

षोडशमातृका-चक्र​ आवाहन एवं स्थापन​-
ॐ गणपतये नम​:, गणपतिमावाहयामि, स्थापयामि ।
ॐ गौर्यै नमः, गौरीमावाहयामि, स्थापयामि ।
ॐ पद्मायै नम​:, पद्मामावाहयामि, स्थापयामि ।
ॐ शच्यै नम​:, शचीमावाहयामि, स्थापयामि ।
ॐ मेधायै नम​:, मेधामावाहयामि, स्थापयामि ।
ॐ सावित्र्यै नमः, सावित्रीमावाहयामि, स्थापयामि ।
ॐ विजयायै नमः, विजयामावाहयामि, स्थापयामि ।
ॐ जयायै नमः, जयामावाहयामि, स्थापयामि ।
ॐ देवसेनायै नमः, देवसेनामावाहयामि, स्थापयामि ।
ॐ स्वधायै नम​:, स्वधामावाहयामि, स्थापयामि ।
ॐ स्वाहायै नमः, स्वाहामावाहयामि, स्थापयामि ।
ॐ मातृभ्यो नम​:, मातॄः आवाहयामि, स्थापयामि ।
ॐ लोकमातृभ्यो नमः, लोकमातॄ: आवाहयामि, स्थापयामि ।
ॐ धृत्यै नम​:, धृतिमावाहयामि, स्थापयामि ।
ॐ पुष्ट्यै नम​:, पुष्टिमावाहयामि, स्थापयामि ।
ॐ तुष्ट्यै नम​:, तुष्टिमावाहयामि, स्थापयामि ।
ॐ आत्मन​: कुलदेवतायै नम​:, आत्मन​: कुलदेवतामावाहयामि, स्थापयामि ।

प्रतिष्ठा:-
ॐ मनो जूतिर्जुषता माज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञॅं समिमं दधातु । विश्वे देवास इह मादयन्तामो३ प्रतिष्ठा ॥

प्रार्थना:-
गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश ॥
॥इति॥

गणनाथ के साथ उमा पदमा, 
शचि मेधा कृपा करि दीजे सहारा।
सावित्री विजया और जया, 
देवसेना स्वधा करुणामय धारा।।
स्वाहा स्वधा लोकमाता धृति, 
शुचि पुष्टि व तुष्टि हरौ महि भारा।
आत्मानः कुलदेवता है षोडश, 
पूर्ण करो शुभ काम हमारा।।

~~~~~~~~~~~~~~~~~~~~~~

सम्पूर्ण पुण्याहवाचनम् विधी-3

यह आवश्यक नहीं की वरुण कलश से ही पुण्याहवाचन किया जाय, अलग से एक मिट्टी, तांबा, चाँदि के कलश में जल भरकर व वरुण कलश के साथ ही पूजा करके पुण्याहवाचन किया जा सकता है । पुण्याहवाचनके दिन आरम्भमें वरुण-कलशके पास जलसे भरा एक कलश​ भी रख दें ।  वरुण-कलशके पूजनके साथ-साथ इसका भी पूजन करें । पहले वरुण प्रार्थना करें ।

वरुण-प्रार्थना-
ॐ पाशपाणे नमस्तुभ्यं पद्मिनी जीविनायक । पुण्यावाचनं यावत तावत त्वं सुस्थिरो भव ॥

यजमान अपनी दाहिनी ओर पुण्याहवाचन-क्र्मके लिये वरण किए युग्म ब्राह्मणोंको, जिनका मुख उत्तर की ओर हो, बैठा ले । इसके बाद यजमान घुटने टेककर कमलाकार अपने अँगुलियों को फैलाकर उसमे कलश रखें और उसे अपने सिरसे लगाकर तीन बार प्रणाम करे । आचार्य मंत्र बोले यजमान आशिर्वाद मांगे-
यजमान- ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनायु:प्रमाणेन पुण्यं पुण्यहं दीर्घमायुरस्तु ॥

ब्राह्मण- दीर्घमायुरस्तु ।
यजमान- ॐ दीर्घा नागा..
ब्राह्मण- दीर्घमायुरस्तु ।
यजमान- ॐ दीर्घा नागा..
ब्राह्मण- दीर्घमायुरस्तु ।
यजमान- ॐ अपां मध्ये स्थिता देवा: सर्वमप्सु प्रतिष्ठतम् । ब्राह्मणनां करे न्यस्ता: शिवा आपो भवन्तु न​: ॥
ॐ शिवा आप​: सन्तु । यह कहकर यजमान ब्राह्मणों के हाथमें जल दे ।
ब्राह्मण- सन्तु शिवा आप​: ।
यजमान- (पुष्प) लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । सा मे वसतु व्ऐ नित्यं सौमनस्यं सदास्तु मे ॥ सौमनस्यमस्तु ।
ब्राह्मण- ऽअस्तु सौमनस्यम्’
यजमान- (अक्षत) अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम॥ अक्षतं चारिष्टं चास्तु ।
ब्राह्मण- अस्त्वक्षतमरिष्टं चं’ ।
ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमें चन्दन, अक्षत, पुष्प आदि देता जाय, और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मङ्गल कामना करें ।

यजमान- (चन्दन) गन्धाः पान्तु ।
ब्राह्मण- सौमङ्गल्यं चास्तु ।
यजमान- (अक्षत) अक्षताः पान्तु ।
ब्राह्मण- आयुष्यमस्तु ।
यजमान- (पुष्प) पुष्पाणि पान्तु ।
ब्राह्मण- सौश्रियमस्तु ।
यजमान- (सुपारी-पान) सफलताम्बूलानि पान्तु ।
ब्राह्मण- ऐश्‍वर्यमस्तु ।
यजमान- (दक्षिणा) दक्षिणाः पान्तु ।
ब्राह्मण- बहुदेयं चास्तु ।
यजमान- (जल) पुनरत्राऽऽप​: पान्तु।
ब्राह्मण- स्वर्चितमस्तु ।
यजमान- (हाथ जोड़कर) दिर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।
ब्राह्मण- ऽतथास्तुऽ ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिचास्तु ।

ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें-

यजमान- (अक्षत लेकर) यं कृत्वा सर्ववेद-यज्ञ-क्रियाकरण-कर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कार मादिं कृत्वा, ऋग​-यजु:- सामा ऽथर्स्जीवा र्वचनं बहुऋषिमतं समनुज्ञातं भव द्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण- वाच्यताम् ।

ऐसा कहकर निम्न मन्त्रोंका पाठ करे –
करोतु स्वस्ति ते ब्रह्मा स्वस्ति चाऽपि द्विजातय​: । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥ ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः । तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥ स्वस्ति तेऽस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च । स्वस्त्यस्त्वापादकेभ्यश्च सर्वेभ्य​: स्वस्ति ते सदा ॥ स्वाहा स्वधा शची चैव स्वस्ति कुर्वंतु ते सदा । करोतु स्व्स्ति वेदादिर्नित्यं तव महामखे ॥ लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ । असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ॥ वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते सदा । धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ॥ स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः । विवस्वान् भगवान् स्वस्ति कतोतु तव सर्वदा ॥ दिग्गजाश्चैव चत्वार​: क्षितिश्च गगनं ग्रहा:। अधस्ताद् धरणीं चाऽसौ नागो धारयते हि य​: ॥ शेषश्च पन्नगश्रेष्ठ​: स्वस्ति तुभ्यं प्रयच्छतु ।
ॐ द्रविणोदाः पिपीषति जुहोत प्रचतिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥ सविता त्वा सवाना गुं सुवतामग्निर्गृहपतीना गुं सोमो वनस्पतीनाम । बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम ॥ न तद्रक्षा गुं सि न पिशाचास्तरन्ति देवानामोजः प्रथमज गुं ह्येतत । यो बिभर्ति दाक्षायण गुं हिरण्य गुं स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः । उच्चा ते जातमन्धसो दिविसद्भूम्याददे । उग्र गुं शर्ममहिश्रवः ॥ उपास्मै गायता नरः पवमानायेन्दवे । अभि देवॉं२ इयक्षते ।
यजमान- व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ ।
ब्राह्मण- समाहितमनसः स्मः ।
यजमान- प्रसीदन्तु भवन्तः ।
ब्राह्मण- प्रसन्नाः स्मः ।

इसके बाद यजमान पहले से रखे गये दो सकोरोंमेसे पहले सकोरेमें आमके पल्लव या दूबसे थोड़ा जल कलश से डाले और ब्राह्मण बोलते जाय -

पहले पात्र (सकोरे) में- ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ आयुष्यमस्तु । ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्म समृद्धिरस्तु । ॐ धर्म समृद्धिरस्तु । ॐ वेद समृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । धनधान्य समृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ इष्टसंपदस्तु ।

दूसरे पात्र (सकोरे) में- ॐ अरिष्ट निरसन मस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद दूरे प्रतिहतमस्तु ।

पुनः पहले पात्र में - ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि विघ्नमस्तु । ॐ उत्तरोत्तर महरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यंताम । ॐ तिथि करण मुहुर्त नक्षत्र संपदस्तु । ॐ तिथि करण मुहुर्त नक्षत्र ग्रह लग्नादि देवताः प्रीयंताम । ॐ तिथिकरणेमुहुर्तनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम । ॐ दुर्गा पांचाल्यौ प्रीयेताम । ॐ अग्निपुरोगा विश्वेदेवाः प्रीयंताम । ॐ इंद्रपुरोगा मरुद्‌गणाः प्रीयंताम । ॐ वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम । ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयेताम । ॐ अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम । ॐ ब्रह्म पुरोगा सर्वे वेदाः प्रीयंताम । ॐ विष्णु पुरोगा सर्वे देवाः प्रीयंताम । ॐ ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम । ॐ ब्रह्म च ब्राह्मणाश्च प्रीयंताम । ॐ श्रीसरस्वत्यौ प्रीयेताम । ॐ श्रद्धामेधे प्रीयेताम । ॐ भगवती कात्यायनी प्रीयेताम । ॐ भगवती माहेश्वरी प्रीयेताम । ॐ भगवती पुष्टिकरी प्रीयेताम । ॐ भगवती तुष्टिकरी प्रीयेताम । भगवती ॐ ऋद्धिकरी प्रीयेताम । भगवती वृद्धिकरी प्रीयेताम । ॐ भगवंतौ विघ्नविनायकौ प्रीयेताम । सर्वाः कुलदेवताः प्रीयंताम । सर्वा ग्रामदेवताः प्रीयंताम । ॐ सर्वा इष्टदेवताः प्रीयन्ताम ।

दूसरे पात्र में- ॐ हताश्‍च ब्रह्मद्विषः । ॐ हताश्‍च परिपंथिनः । ॐ हताश्‍च कर्मणो विघ्नकर्तारः । ॐ शत्रवः पराभवं यांतु । ॐ शाम्यंतु घोराणि । ॐ शाम्यंतु पापानि । ॐ शाम्यंत्वीतय । ॐ शाम्यन्तूपद्रवाः ॥

पहले पात्र में- ॐ शुभानि वर्धंताम । 
ॐ शिवा आपः संतु । 
ॐ शिवा ऋतवः संतु । 
ॐ शिवा ओषधयः संतु । 
ॐ शिवा वनस्पतयः संतु । 
ॐ शिवा अतिथयः संतु । 
ॐ शिवा अग्नयः संतु । 
ॐ शिवा आहुतयः संतु । 
ॐ अहोरात्रे शिवे स्याताम ।
ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम ॥ 
ॐ शुक्रांगारक बुध बृहस्पति शनैश्चर राहु केतु सोम सहितादित्य पुरोगा सर्वे ग्रहाः प्रीयंताम । 
ॐ भगवान नारायणः प्रीयताम । 
ॐ भगवान पर्जन्यः प्रीयताम । 
ॐ भगवान स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु । 
ॐ याज्यया यत्पुण्यं तदस्तु । 
ॐ वषट्‌कारेण यत्पुण्यं तदस्तु । 
ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।

इसके बाद यजमान कलश को कलश के स्थान पर रखकर पहले पात्र में गिराये गये जल से मार्जन करे । परिवार के लोग भी मार्जन करें । इसके बाद इस जल को घर में चारों तरफ छिड़क दे । द्वितीय पात्र में जो जल गिराया गया है, उसको घरसे बाहर एकान्त स्थानमें गिरा दे ।
अब यजमान हाथ जोड़कर ब्राह्मणोंसे प्रार्थना करे -

यजमान- ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण- वाच्यताम ।

इसके बाद यजमान फिरसे हाथ जोड़कर प्रार्थना करे -

यजमान- ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम ।
(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ पुण्याहम ।
यजमान- भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः
(दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ पुण्याहम ।
यजमान- भो ब्राह्मणाः । मम ...करिष्यमाणस्य अमुककर्मणः
(तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ पुण्याहम ।
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥
यजमान- पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम ।
(पहली बार) ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥ भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ कल्याणम ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ कल्याणम ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ कल्याणम ।
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः । ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।
यजमान- ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।
(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रबुवन्तु नः ॥ भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ ऋद्ध्यताम ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ ऋद्ध्यताम ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ ऋद्ध्यताम ।
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥
यजमान- ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
(पहली बार) विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥ भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ आयुष्मते स्वस्ति ।
यजमान- भो ब्राह्मणाः! मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ आयुष्मते स्वस्ति ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ आयुष्मते स्वस्ति ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
यजमान- ॐ समुद्रमथनाज्जाता जगदानन्दकारिका ।
(पहली बार) हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥ भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ अस्तु श्रीः ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ अस्तु श्रीः ।
यजमान- भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण- ॐ अस्तु श्रीः । ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम । इष्णन्निषानामुं म इषाण सर्वलोकं म इषाण ॥
यजमान- ॐ मृकण्डुनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा । आयुषा तेन संयुक्ता जीवेम शरदः शतम ॥
ब्राह्मण- ॐ शतं जीवन्तु भवन्तः । ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
यजमान- ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे । धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण- ॐ अस्तु श्रीः ।
ॐ मनसः काममाकूतिं वाचः सत्यमशीय । पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
यजमान- प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट । भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥
ब्राह्मण- ॐ भगवान प्रजापतिः प्रीयताम ।
ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम ॥
यजमान - आयुष्मते स्वस्तिमते यजमानाय दाशुषे । श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥ देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे । एकलिङ्गेः यथा स्वस्ति तथा स्वस्ति सदा मम ॥
ब्राह्मण- ॐ आयुष्मते स्वस्ति ।
ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम ।
येन विश्‍वाः परि द्विषो वृणक्ति विन्दते वसु ॥
ॐ पुण्याहवाचनसमृद्धिरस्तु ॥
यजमान- अस्मिन पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुप विष्टब्राह्मणानां वचनात श्रीमहागणपति प्रसादाच्च परिपूर्णोऽस्तु ।

दक्षिणाका संकल्प - कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।
ब्राह्मण- ॐ स्वस्ति ।

अभिषेक
पुण्याहवाचनोपरान्त कलशके जलको पहले पात्रमें गिरा ले । अविधुर ब्राह्मण उत्तर या पश्चिम मुख होकर दूब और पल्लव के द्वारा इस जल से यजमान का अभिषेक करे । अभिषेक के समय यजमान अपनी पत्नीको बायीं तरफ कर ले । परिवार भी वहाँ बैठ जाय । अभिषेक के मन्त्र निम्नलिखित हैं-

ॐ पय​: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: । पयस्वती: प्रदिश​: सन्तु मह्यम्॥
ॐ पञ्च नद्य​: सरस्वतीमपि यन्ति सस्रोतस​: । सरस्वती तु पञ्चधा सो देशे भवत्सरित्॥
ॐ वरुणस्योत्तम्भनमसि वरुण्स्य स्कम्भसर्जनी स्थो वरुण्स्य ऋतसदनमा सीद ॥
ॐ पुनन्तु म देवजना: पुनन्तु मनसा धिय​: । पुनन्तु विश्वा भूतानि जातवेद​: पुनीहि मा ॥
ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याअम्। सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसौ ।

ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥ ॐ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥ ॐ धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पति: । सचेतसो विश्वे देवा यज्ञं प्रावन्तु न​: शुभे ॥
द्यौः शान्तिरन्तरिक्ष ग्वँग शान्तिः पृथिवी शान्तिरापः शान्तिरो षधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥ यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु॥


दक्षिणादान​- ॐ अद्य​...कृतैतत्पुण्याहवाचनकर्मण​: साड़्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे ।

॥ इति ॥
~~~~~~~~~~~~~~~~~~~~