श्री गणेश ध्यान--
1 एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्।
पाशाड़्कुशधरं देवं ध्याये सिद्धिविनायकम॥
2 लम्बोदरं परमसुन्दरमेकदन्तं रक्ताम्बरं त्रिनयनं परमं पवित्रम्।
उद्यद्दिवाकरनिभोज्ज्वल कान्तिकान्तं विघ्नेश्वरं सकलविघ्नहरं नमामि॥
3 प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम्।
उद्दण्ड विघ्न परिखण्डन चण्ड दण्डमाखण्ड लादिसुर नायक वृन्दवन्द्यम्॥
शिवध्यान--
1 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलांगं परशुमृगवरा भीतिहस्तं प्रसन्नम्।
पद्मासीनं समन्तात स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥
2 प्रात: स्मरामि भव भीतिहरं सुरेशं
गड़्गाधरं वृषभवाहनमम्बिकेशम्।
खट्वाड़्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम्॥
श्रीविष्णु ध्यान--
1 शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाड़्गम्।
लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
2 प्रात: स्मरामि भवभीतिमहार्तिनाशं
नारायणं गरुडवाहनमब्जनाभम्।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम्॥
No comments:
Post a Comment